वस्तुनिष्ठप्रश्नाः
प्रश्न 1.
वेदाः भागेषु विभक्ताः सन्ति–
(क) एकस्मिन्
(ख) द्वयोः
(ग) त्रिषु।
(घ) चतुषु
उत्तर:
(घ) चतुषु
प्रश्न 2.
धर्ममूलम् उच्यते-
(क) पुराणानि
(ख) भारतम्
(ग) धर्मशास्त्रम्
(घ) वेदः।
उत्तर:
(घ) वेदः।
प्रश्न 3.
चतुषु वेदेषु प्राचीनतमः वेदः अस्ति।
(क) यजुर्वेदः
(ख) सामवेदः
(ग) ऋग्वेदः।
(घ) अथर्ववेदः।
उत्तर:
(ग) ऋग्वेदः।
प्रश्न 4.
‘अपौरुषेयं वाक्यं वेद इति’ प्रोक्तम्-
(क) सायणेन।
(ख) महीधरेण
(ग) कैय्यटेन
(घ) उव्वटेन।
उत्तर:
(क) सायणेन।
प्रश्न 5.
ऋग्वेदः विभक्तः अस्ति
(क) एकधा
(ख) द्विधा
(ग) त्रिधा
(घ) चतुर्धा।
उत्तर:
(ख) द्विधा
प्रश्न 6.
ऋग्वेदः मण्डलेषु विभक्तः अस्ति
(क) एकस्मिन्।
(ख) त्रिषु
(ग) देशसु
(घ) अष्टसु।
उत्तर:
(ग) देशसु
प्रश्न 7.
ऋग्वेदस्य नवमण्डलस्य नाम अस्ति
(क) पवमानमण्डलम्
(ख) सवितृमण्डलम्
(ग) देवमण्डलम्।
(घ) ऋषिमण्डलम्।
उत्तर:
(क) पवमानमण्डलम्
प्रश्न 8.
यज्ञे ऋत्विजः भवन्ति–
(क) एकः
(ख) द्वौ
(ग) त्रयः
(घ) चत्वारः।
उत्तर:
(घ) चत्वारः।
प्रश्न 9.
सामवेदे कति मन्त्राः सन्ति-
(क) 1359
(ख) 1889
(ग) 1589
(घ) 1669
उत्तर:
(ग) 1589
प्रश्न 10.
‘वेदानां सामवेदोऽस्मि’ प्रोक्तम्-
(क) कृष्णेन
(ख) अर्जुनेन
(ग) युधिष्ठिरेण
(घ) व्यासेन।
उत्तर:
(क) कृष्णेन
प्रश्न 11.
वेदान् अपौरुषेयान् मन्यन्ते–
(क) प्राचीनभारतीयविद्वांसः।
(ख) आधुनिकभारतीयविद्वांसः
(ग) बालगंगाधरतिलकः
(घ) पाश्चात्यविद्वांसः।
उत्तर:
(क) प्राचीनभारतीयविद्वांसः।
प्रश्न 12.
मैक्समूलरमते ऋग्वेदस्य रचना जाता
(क) 1500 ई. पू. समीपे
(ख) 1600 ई. पू. समीपे
(ग) 1150 ई. पू. समीपे
(घ) 800 ई. पू. समीपे।
उत्तर:
(ग) 1150 ई. पू. समीपे
प्रश्न 13.
बालगङ्गधरतिलकमते ऋवेदस्य रचनाकालः अस्ति
(क) 6000 वर्षपूर्वम्।
(ख) 5000 वर्षपूर्वम्
(ग) 4000 वर्षपूर्वम्।
(घ) 3000 वर्षपूर्वम्।
उत्तर:
(क) 6000 वर्षपूर्वम्।
प्रश्न 14.
वेदस्य अङ्गानि सन्ति
(क) पञ्च
(ख) घडू
(ग) सप्त।
(घ) अष्ट।
उत्तर:
(ख) घडू
प्रश्न 15.
येन वेदमन्त्राणामुच्चारणं शुद्धं सम्पाद्येत, तच्छास्त्रस्य नाम अस्ति
(क) शिक्षा
(ख) कल्पः
(ग) छन्दः
(घ) व्याकरणम्।
उत्तर:
(क) शिक्षा
अन्य महत्त्वपूर्ण प्रश्नोत्तर
वस्तुनिष्ठप्रश्नाः
प्रश्न 1.
वैदिकसाहित्यस्य समग्रासु रचनासु प्राचीनतमा रचना अस्ति
(अ) सामवेदः
(ब) ऋग्वेदः
(स) यजुर्वेदः
(द) अथर्ववेदः।,
उत्तर:
(ब) ऋग्वेदः
प्रश्न 2.
यस्य साहित्यस्य अध्ययनम् अध्यापनं च नगरग्रामाभ्यां दूरात्तरं भवति स्म तत् साहित्यं कथ्यते
(अ) ब्राह्मणम्
(ब) आरण्यकम्।
(स) उपनिषदः
(द) वेदान्तः।
उत्तर:
(ब) आरण्यकम्।
प्रश्न 3.
भारतीयानां मते वेदरचनाकालविचारः सर्वथा निरर्थकोऽस्ति यतो हि वेदाः
(अ) अपौरुषेयाः
(ब) काल्पनिकाः
(स) नाशरहिताः
(द) चत्वारः।
उत्तर:
(अ) अपौरुषेयाः
प्रश्न 4.
रोग-निवारकाः मन्त्राः कस्मिन् वेदे संकलिताः?
(अ) ऋग्वेदे
(ब) यजुर्वेदे।
(स) सामवेदे
(द) अथर्ववेदे।
उत्तर:
(द) अथर्ववेदे।
प्रश्न 5.
छन्दोबद्धानां पद्यात्मकानां मन्त्राणां नाम अस्ति
(अ) ऋक्
(ब) यजुः
(स) साम
(द) अथर्व।
उत्तर:
(अ) ऋक्
प्रश्न 6.
पौराणिकमतानुसारं व्यासः वेदं प्रोवाच
(अ) याज्ञवल्क्याय
(ब) कश्यपाय
(स) वैशम्पनाय
(द) वसिष्ठाय
उत्तर:
(स) वैशम्पनाय
प्रश्न 7.
‘सामानि यो वेत्ति स वेदतत्त्वम्’ इति उक्तम्
(अ) सायणेन
(ब) शौनकेन
(स) श्रीकृष्णेन
(द) महीधरेण
उत्तर:
(ब) शौनकेन
प्रश्न 8.
संगीतशास्त्रस्य मूलमस्ति
(अ) अग्निसूक्तम्
(ब) पृथिवीसूक्तम्
(स) नाट्यशास्त्रम्
(द) सामगानम्।
उत्तर:
(द) सामगानम्।
प्रश्न 9.
‘साम’ इत्यस्य आरम्भः अवसानं च भवति–
(अ) ‘ओम्’ शब्देन
(ब) ‘भो:’ शब्देन
(स) ‘हे’ इति शब्देन
(द) ‘आः’ इति शब्देन
उत्तर:
(अ) ‘ओम्’ शब्देन
प्रश्न 10.
वेदव्याख्यारूपाः सन्ति
(अ) उपनिषद्ग्रन्थाः
(ब) आरण्यकग्रन्थाः
(स) ब्राह्मणग्रन्थाः
(द) व्याकरणम्।
उत्तर:
(स) ब्राह्मणग्रन्थाः
प्रश्न 11.
वेदान्त एवं कथ्यते
(अ) आरण्यकम्।
(ब) उपनिषद्
(स) ब्राह्मणम्।
(द) शिक्षा।
उत्तर:
(ब) उपनिषद्
प्रश्न 12.
उपलभ्यमानो निरुक्तग्रन्थोऽस्ति
(अ) याज्ञवल्क्यस्य
(ब) पाराशरस्य
(स) पतञ्जलेः
(द) यास्कस्य।
उत्तर:
(द) यास्कस्य।
प्रश्न 13.
कालविज्ञापकं शास्त्रं वर्तते–
(अ) ज्योतिषम्
(ब) छन्दः
(स) शिक्षा
(द) व्याकरणम्।
उत्तर:
(अ) ज्योतिषम्
लघूत्तरात्मकप्रश्नाः
प्रश्न 1.
वेदान् अपौरुषेयान् के मन्यन्ते?
उत्तर:
सायणादयः सर्वे मनीषिणः वेदान् अपौरुषेयान् मन्यन्ते।
प्रश्न 2.
वेदानां सामवेदोऽस्मि’ इति ब्रुवन् सामवेदस्य महिमा केन उद्घोषिताः?
उत्तर:
इति ब्रुवन् सामवेदस्य महिमा श्रीकृष्णेन उद्घोषितमा।।
प्रश्न 3.
‘छन्दः शास्त्रम्’ ग्रन्थः केन आचार्येण विरचितः?
उत्तर:
‘छन्दः शास्त्रम्’ ग्रन्थः पिङ्गलाचार्येण विरचितः।
प्रश्न 4.
शिक्षा वेदस्य किं अस्ति?
उत्तर:
शिक्षा वेदस्य घ्राणम् अस्ति।
प्रश्न 5.
सूक्तमण्डलभेदेन कः वेदः विभक्तः?
उत्तर:
सूक्तमण्डलभेदेन ऋग्वेदः विभक्तः।
प्रश्न 6.
वेदानां रचनाकालविषये तिलकमहोदयस्य मतं लिखत।
उत्तर:
तिलकमहोदयेन मृगशिरानक्षत्रे वसन्तसम्पातस्य साधकानि बहूनि वेदवाक्यानि संगृहीतानि। मृगशिरायां वसन्तसम्पातस्य कालः कृत्तिकाकालात् प्रायः 2000 वर्षपूर्वं सम्भवति। अस्य गणनाधारेण तिलकमहोदयस्य मते ऋग्वेदस्य रचनाकालः 6000 वर्षपूर्व वर्तते।।
प्रश्न 7.
ऋग्वेदस्य प्रमुखचतसृणां शाखानां नामानि लिखत।
उत्तर:
ऋग्वेदस्य प्रमुखशाखानां नामानि सन्ति-शाकलः, वाष्कलः, आश्वलायनः, सांख्ययनः, माण्डूकायनश्च।
प्रश्न 8.
वेदशब्दस्य का व्युत्पत्तिः किञ्चार्थः?
उत्तर:
ज्ञानार्थक—‘विद्’ धातोः ‘घ’ प्रत्यययोगात् ‘वेद’ शब्दः निष्पद्यते। वेदशब्दस्य अर्थः ज्ञानम् अस्ति। अर्थात् येन धर्मस्य ब्रह्मणः क्रियामयस्य ब्रह्मणः वा ज्ञानं भवति, सः वेदः कथ्यते।।
प्रश्न 9.
महर्षिणा शौनकेन सामविषये किम् उक्तम्?
उत्तर:
महर्षिणा शौनकेन उक्तं यत्- ‘सामानि यो वेत्ति से वेदतत्त्वम्।’ अर्थात् यः साम जानाति स एव वेदरहस्यं जानाति।
प्रश्न 10.
यज्ञे कति ऋत्विजः भवन्ति? तेषां नामानि अपि लिखत।
उत्तर:
यज्ञे चत्वारः ऋत्विजः भवन्ति-
- होता,
- अध्वर्युः,
- उद्गाता,
- ब्रह्मा च।
प्रश्न 11.
सामविकारः किम् कथ्यते? कतिविधाश्च सामविकाराः?
उत्तर:
सामगाने संगीतानुरूपं यत् शाब्दिकं परिवर्तनं क्रियते तत् ‘सामविकारः कथ्यते। सामविकाराः षविधाः भवन्ति–विकार-विश्लेषण-विकर्षण-अभ्यास-विरामस्तोमरूपादयः।
प्रश्न 12.
ऋग्वेदस्य अथर्ववेदस्य च ब्राह्मणग्रन्थानां नामानि लिखत।।
उत्तर:
ऋग्वेदस्य ऐतरेयब्राह्मणम्, कौषीतकिब्राह्मणञ्चेति ब्राह्मणद्वयमस्ति। अथर्ववेदस्य गोपथब्राह्मणमस्ति।।
प्रश्न 13.
कीदृशाः ग्रन्थाः ‘आरण्यकम्’ कथ्यन्ते?
उत्तर:
अरण्येषु निवासिनां वानप्रस्थानाम् यज्ञादेः कर्मविवेचनात्मकाः ग्रन्थाः ‘आरण्यकम्’ कथ्यन्ते। सायणमते अरण्येषु अध्यापनकारणादेव एतत् साहित्यम्’ आरण्यकम्’ इति नाम्ना प्रसिद्धम्।
प्रश्न 14.
का विद्या उपनिषद् कथ्यते?
उत्तर:
या विद्या परम्परया गुरो: समीपे उपविश्य प्राप्यते, तथा च यया समस्तानर्थोत्पादिकानां सांसारिकक्रियाणां नाशः भवति, संसारस्य कारणभूताया अविद्यायाः बन्धनं शिथिलं भवति, ब्रह्मसाक्षात्कारः च भवति, सा विद्या उपनिषद् कथ्यते।।
प्रश्न 15.
वेदाङ्गानि कति सन्ति? तेषां नामानि लिखत।
उत्तर:
वेदाङ्गानि षड् सन्ति-शिक्षा, कल्पः, निरुक्तम्, व्याकरणम्, छन्दः, ज्योतिषञ्च।।
प्रश्न 16.
श्रौतसूत्रेषु के विषयाः विवेचिताः सन्ति?
उत्तर:
श्रौतसूत्रेषु अग्नित्रयाधानम्, अग्निहोत्रम्, दर्शपूर्णमासौ, पशुयागः, नानाविधाः सोमयागाः चेति विषयाः सम्यक् विवेचिताः सन्ति।
प्रश्न 17.
ज्योतिःशास्त्रप्रवर्तकाः महर्षयः के सन्ति?
उत्तर:
सूर्यः पितामहो व्यासो वसिष्ठोऽत्रिः पराशरः।।
कश्यपो नारदो गर्ग: मरीचिर्मनुरङ्गिराः।।
लोमशः पौलिशश्चैव च्यवनो यवनो भृगुः।
शौनकोऽष्टादशाश्चैते ज्योति:शास्त्रप्रवर्तकाः।।
Thanks mem question k liye
1 number pkka
Tq. For nice session mam
Bahut acche question hai mam thank you mam